अथ तां वयसि प्राप्ते दासीनां समलङ्कृताम् ।
शतं सखीनां च तथा पर्युपास्ते शचीमिव ॥३.५०.११॥

अन्वयः॥ अथ वयसि प्राप्ते, दासीनां सखीनां च शतं समलङ्कृतां तां शचीम् इव पर्युपास्ते॥

तिप्पणी॥ तस्याः दमयन्त्याः अधिगते यौवने, सर्वालङ्कारसम्पन्नाः सुसज्जिताः शतं शतं दास्यः सख्यः च तां दमयन्तीं शचीम् इव परिचर्याम् अकुर्वन्।