तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता ।
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा ।
अतीव रूपसम्पन्ना श्रीरिवायतलोचना ॥३.५०.१२॥

अन्वयः॥ सर्वाभरणभूषिता अनवद्याङ्गी अतीवरूपसम्पन्ना श्रीः इव आयतलोचना भैमी तत्र सखीमध्ये विद्युत्सौदामिनी यथा भ्राजते स्म॥

तिप्पणी॥ भीमस्य अपत्यं स्त्री भैमी। सर्वैः आभरणैः भूषिता सर्वाभरणभूषिता। न अवद्यम् अनवद्यम्, अनवद्यं अङ्गं (शरीरं) यस्याः सा अनवद्याङ्गी। आयते (दीर्घे) लोचने यस्याः सा आयतलोचना।

सकलैः आभूषणैः भूषिता, चार्वङ्गी, सुन्दरी श्रीः इव विशालाक्षी दमयन्ती तत्र मित्रेषु, सा विद्युत् वा सौदामिनी इव दीप्यते स्म॥