तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः ।
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ॥३.५०.५॥

अन्वयः॥ तथा एव विदर्भेषु भीम (नाम्ना) भीमपराक्रमः शूरः सर्वगुणैः युक्तः आसीत्। सः च अप्रजः प्रजाकामः (आसीत्)॥

तिप्पणी॥ भीमः पराक्रमः यस्य सः भीमपराक्रमः। प्रजां कामयते इति प्रजाकामः। न विद्यते प्रजा यस्य सः अप्रजः।

यथा राजा नलः निषधेषु, तथा विदर्भेषु राजा भीमः आसीत्। सः महान् पराक्रमी, सद्गुणैः उपपन्नः। यतः सः सन्तानरहितः, सः सन्तानेच्छुकः।