अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥१.१॥

अन्वयः ॥ उत्तरस्यां दिशि हिमालयः नाम नगाधिराजः पूर्वापरौ तोयनिधी वगाह्य पृथिव्याः मानदण्डः इव स्थितः अस्ति।

पुंसवनी ॥ उत्तरककुभिः देवतास्वरूपो हिमालयनामकः पर्वतश्रेष्ठः पूर्वसमुद्रादारभ्य पश्चिमसमुद्रपर्यन्तं विस्तीर्णः, भूमेः परिच्छेदको दण्डः इव वर्तत इत्यर्थः। मानदण्डः हि मेयेन तुल्यपरिमाणो भवतीति यावत्।

उत्तरस्याम्=उदीच्याम्; दिशि=आशायाम्; देवतात्मा=देवतास्वरूपः; हिमालयो नाम=हिमालय इति प्रसिद्धः; नगाधिराजः=पर्वतराजः; पूर्वापरौ=पूर्वपश्चिमौ; तोयनिधी=समुद्रौ; वगाह्य=प्रविश्य; पृथिव्याः=भूमेः; मानदण्ड इव=परिच्छेदकदण्डः इव; स्थितः=अवस्थितः; अस्ति=वर्तते।

देवा आत्मा यस्य सः देवतात्मा। हिमानाम् आलयः हिमालयः। न गच्छन्तीति नगाः, अधिको राजा अधिराजः; नगानाम् अधिराजः नगाधिराजः। पूर्वश्च अपरश्च पूर्वापरौ। तोयानां निधिः तोयनिधिः। मानस्य दण्डः मानदण्डः, अथवा मानश्च असौ दण्डः मानदण्डः॥