गते विरामं गरुडध्वजेऽस्मिन्
मखेषु सर्वत्र निवारितेषु ।
सुरेषु सर्वेष्वपि दुर्बलेषु
हस्ते भविष्यत्यमरावती नः ॥३.१३॥

अन्वयः ॥ मखेषु सर्वत्र निवारितेषु (सत्सु), अस्मिन् गरुडध्वजे विरामं गते (सति) सर्वेषु देवेष्वपि दुर्बलेषु (सत्सु) अमरावती नः हस्ते भविष्यति॥

विलासिनी ॥ गत इति॥ अस्मिन् अस्मान् द्वेष्टुम् अवतीर्णे गरुडध्वजे विष्णौ विरामम् अवसानं गते सति, सर्वत्र सर्वप्रदेशेषु मखेषु यज्ञेषु अथवा सर्वेषु नित्यनैमित्तिकेषु कर्मसु निवारितेषु प्रतिषिद्धेषु सत्सु, सर्वेषु सुरेषु देवेष्वपि दुर्बलेषु क्षीणबलेषु। अन्नमेव हि शरीरिणां बल--मिति वचनात् मखप्रणाशात् मखाशिनः पुनः न जीवेयुरिति भावः। अतः तेष्वपि बलहीनेषु सत्सु, अमरावती नः अस्माकं हस्ते भविष्यति अधीना भविष्यतीत्यर्थः॥