वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥१॥

पदच्छेदः -- वाक्-अर्थौ , इव , सम्पृक्तौ , वाक्-अर्थ-प्रतिपत्तये , जगतः, पितरौ , वन्दे , पार्वती-परमेश्वरौ ॥

अन्वयः -- (अहं) वागर्थ-प्रतिपत्तये वागर्थौ इव सम्पृक्तौ जगतः पितरौ पार्वती-परमेश्वरौ वन्दे ॥
वाच्यपरिवर्तनम् -- (मया) वागर्थ-प्रतिपत्तये वागर्थौ इव सम्पृक्तौ जगतः पितरौ पार्वती-परमेश्वरौ वन्द्येते ॥

भावार्थः -- अहं विशिष्ट-शब्दार्थयोः सम्यक्-ज्ञानार्थं शब्दार्थौ इव नित्य-सम्मिश्रौ संसारस्य मातापितरौ शिवा-शिवौ भक्त्या नमस्करोमि ॥

For the right comprehension of words and their senses, I salute Parvati and Parameshwara, the parents of the world, who are perpetually united like words and their meanings.

वागर्थ-प्रतिपत्तये - for the right comprehension of words and their senses ॥ वन्दे - I salute ॥ पार्वती-परमेश्वरौ - Parvati and Parameshwara ॥ जगतः पितरौ - the parents of the world ॥ सम्पृक्तौ - who are perpetually united ॥ वागर्थौ इव - like words and their meanngs ॥

व्याख्या -- अहं पार्वतीपरमेश्वरौ वन्दे । कथं भूतौ पार्वतीपरमेश्वरौ ? सम्पृक्तौ, सम्मिलितौ एकीभूतौ । कौ इव ? नित्यसम्बद्धौ वागर्थौ इव । कस्मै प्रयोजनाय ? वागर्थप्रतिपत्तये, विशिष्टयोः शब्दार्थयोः अवगमनाय । पार्वती च परमेश्वरः च, पार्वती-परमेश्वरौ । पार्वतीं पाति रक्षति इति पार्वतीपः, रमायाः लक्ष्म्याः ईश्वरः रमेश्वरः, पार्वतीपः च रमेश्वरः च पार्वतीप-रमेश्वरौ, हरिहरौ । पुनः कथं भूतौ ? जगतः पितरौ । माता च पिता च पितरौ । {मातापित्रॊः इति एकशेषः ।} वाक् च अर्थः च वागर्थौ तौ इव । {इवेन सह नित्यसमासः विभक्त्यलोपः च इति । इवेन सह ऐकपद्यं, विभक्तेः अलोपः च ।} वागर्थौ इव । वाचाम् अर्थः यत्र सः वागर्थः, काव्यम् । तस्य प्रतिपत्तिः निष्पत्तिः, सम्पूर्णता । तस्यै वागर्थ-प्रतिपत्तये काव्य-निष्पत्तये इति अर्थः । उभयोः किम् इति नमस्कारः ? --

शिवा शब्दमयी प्रोक्ता शम्भुश्चार्थमयः स्मृतः ।
अतः शब्दार्थनिष्पतिसिद्धये तौ नतौ मया ॥

कथं मातुः पूर्वं नतिः ? अभ्यर्चितत्वात् पितुः युज्यते, यः च अर्चितं द्वयोः इति स्ववचनात्, कवेः देवी-नाम्ना प्रसिद्धत्वात् तत्प्रसाद-प्राप्त-महत्त्वात् च शिवाभ्यर्चिता । अन्यच्च्-

पतितोऽपि पिता त्याज्यो माता नैव च नैव च !
गर्भाधारणपोषाभ्यां ताभ्यां माता गरीयसी ॥

I salute Parvati and Parameshwara, who are ever linked and united like a word and its intended meaning. For what reason? For the correct understanding of a word’s import. Or, in a secondary sense, parvatipa-rameshwarau may be understood as Shiva and Vishnu. They are the progenitors of the world. In order to complete this kavya successfully, I salute them.