पूर्वं क्त-क्तवत्योः चर्चा कृता । किन्तु , संशयाः अनिवारिताः इति सूचितम् ।

क) गत्यर्थ-युक्त-धातवः प्रयोग-त्रयेऽपि भवितुम् अर्हन्ति वा ?

मित्रं अध्यापकं पृष्ट्वा "आम्" इति सूचितवती । अष्टाध्याय्याम् वर्तते यत् --

गत्यर्थ-अकर्मक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यः च (३.४.७२) [क्तः, कर्त्तरि, कर्मणि भावे च अकर्मकेभ्यः, धातोः, प्रत्ययः] ॥

प्रथमावृत्त्यां अर्थं दत्तम् -- गत्यर्थेभ्यः धातुभ्यः अकर्मकेभ्यः श्लिषादिभ्यश्च यः क्तः विहितः सः कर्त्तरि भवति चकाराद् यथाप्राप्तं भावकर्मणोः भवति । उदाहरणानि -- गतः देवदत्तः ग्रामम् । गतः देवदत्तेन ग्रामः । गतं देवदत्तेन ।

(एतत् पत्रम् अपि क्त-प्रत्ययस्य अर्थं बोधयति)