एप्रिल-मासस्य प्राथमिक-दिनं प्राचीनक्षेत्रे हास्य-दिनम् । बहवः विदूषकाः तेषां प्रयत्नस्य ख्यातिं प्रार्थयन्ते । न केवलं बालकाः, किन्तु प्रौढाः, संस्थानानि अपि । एतस्मिन् दिने कापि मुख्य-वार्ता कदाऽपि मा भवेत् । यतः तस्यां कस्यापि विश्वासः प्रायेण न भविष्यति । गूगलः नाम संस्थानम् । तेषां वार्ता यत् अन्तर्जालतन्तुं (ethernet-cable) शौचालये निर्गमन-नाल-द्वारा निष्काशयतु (flush down the toilet) । एवं सः तन्तुः अन्यं अन्तर्जाल-सन्धि-क्षेत्रं प्राप्य, तेन तन्तुना अन्तर्जाल-संयोगः भवितुं अर्हति इति !