भारतीय-भाषासु चलच्चित्राणि प्रचुराणि । प्रत्येकं, तस्मिन् पञ्चषाणि गीतानि च । तेषु कानिचन प्रसिद्धानि, यतः तालः वाणी भावः च आकर्षकरम् । तस्य संस्कृतानुवादः भवितुम् अर्हति वा इति प्रश्नः । किम् न ? तस्य भावस्य अनुवादः कर्तृत्व-गोचरे अस्ति । प्रांशु-लभ्ये फले मोहात् वामनाः यूयम् इति केचन उपदिषन्ते । भवतु . . . हास्यं प्राप्तुं बद्धाः वयम् । तेभ्यः द्रष्टृभ्यः नूतनं हास्यं खलु ? बालकाः इव क्रीडन्तः वयम् । क्रीडामग्नाः गायन्तः वयम् ।