संस्कृतभारती-द्वारा बहूनि संस्कृतपुस्तकानि प्रकाशितानि। तेषां प्रेरणात् बहवः संस्कृतज्ञाः अनुवादकार्ये (अन्यभाषातः) मग्नाः सन्ति। एतस्य आवश्यकता कृष्ण-शास्त्रिणा महोदयेन सम्भाषणसन्देशे पत्रिकायां सुस्पष्टतया वर्णिता अस्ति।

बैरप्प-महोदयस्य ख्यातिः कन्नद-भाषा-क्षेत्रे सर्वत्र प्रसारिता। तेन लिखितस्य "धर्मश्रीः" नाम्ना पुस्तकस्य अनुवादः संस्कृतेन अपि कृतः। २००५ वर्षे, तेन अनुवादेन "साहित्या-अकेदेमी" पारितोषितं प्राप्तम्। कदाऽपि पठामि चिन्तयन् गतवर्षे तत्पुस्तकं क्रीतम्। कतिपय-दिनेभ्यः पूर्वं पठनम् आरब्धम् . . . अद्य प्रथमावृत्तिः समाप्ता। पठनं समाप्तं इति न उक्तम्। चिन्तार्हे गाम्भीरविषये लिखितम् इदं पुस्तकम्।

कल्पितस्य सत्यनारायणस्य जिवन-कथा एषा। जीवनमध्ये, मतपरिवर्तनं कृत्वा, तेन काश्चन बाधाः अनुभूताः। अस्मिन् विषये अस्य सत्यनारायणस्य चिन्तनरीतिः, बन्धूनां, मित्राणां, सहोद्योगिनां, परितस्य समाजस्य प्रतिवचनं, प्रतिक्रिया च बोधितम्। एषः विषयः अस्माभिः अपरिचितः इति न। किन्तु, सर्वासां क्रियानां परिणामः कः इति सर्वदा विचारः न क्रियते। पुस्तक-पठनम् इदं निश्चयेन मतपरिवर्तने विचार-तरङ्गान् जनयति।