प्रायेण सर्वेऽपि पठितारः "आकाशवाणी/AIR" संस्थां जानीयुः। अन्तर्जाले अस्याः संस्थायाः इतिहासे किञ्चित्मात्रं गवेषणं कृतम्। इङ्ग्लण्ड-शासन-समये AIR इति नाम्ना संस्थया व्यवह्रियते स्म। स्वातन्त्रताऽनन्तरं आकाशवाणी इति पदं प्रयोक्तुं प्रयतते स्म सा संस्था। किन्तु, तदा तमिलु-जनैः विरोधः कृतः -- इदं पदं हिन्दी-पदं, यस्य आक्षेपः अस्मदोपरि न सोढव्यः-- इति। वस्तुतया इदं पदं कन्नडा-भाषायाः स्वीकृतम्। बहोः कालात् तत्र प्रयुक्तम्। किन्तु उन्मत्त-तमुलु-जनानां दृष्ट्या -- यदि किमपि पदं हिन्दी-भाषिभिः अङ्गीक्रियते, तर्हि तत् पदं हिन्दी-पदम् एव -- इति निर्णीतम्। अतः, तमिलु-राज्ये एव AIR इति पदं अद्यावधि "आकाशवाणी" इति पदस्य स्थाने तिष्ठति।

न अवगतं तैः यत् नैकानां मातृभाषीणां इदं पदं सरल-अवगमनार्हं . . . तदस्ति अस्य वैशिष्ट्यम्। वस्तुतया पदं इदं संस्कृतम् -- तत्र न कोपि आश्चर्यम्। यतः सा पवित्रभाषा सरलबोध्या, सरलावगम्या च।