प्रश्नः यः पौनःपुण्येन पृच्छ्यते -- मोक्षस्य कारणं कर्म वा ज्ञानं वा इति। अद्वैतिनां मतं यत् कर्मयोगद्वारा चित्तशुद्धिः, पुनः ज्ञानेन अविद्यानाशः। सः एव भावः योगवासिष्ठायाम् अपि आदौ प्रतिपादितम्।

अगस्तिः वदति --
उभाभ्याम् अपि पक्षिभ्यां यथा खे पक्षिणां गतिः।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम्॥

तात्पर्यं व्याचष्टे -- कर्मणां पूर्वभावः तु प्रवृत्ति-निवृत्तयोः युगपत् असम्भवात् विरुद्धाधिकारि-विशेषणकत्वात् च अर्थसिद्धः इति न यौगपद्यांशे दृष्टान्तः। यथा दर्पणे प्रतिबिम्बोदये मार्जनालोकौ द्वौ अपि आवश्यकौ तद्वत् कर्मकृतचित्तशुद्धिः प्रमाणजन्यवृत्तिः च अविद्यानिवृत्तौ आवश्यके अशुद्धचित्तैः शतशः श्रुतेऽपि ज्ञानफलात् अदर्शनात् इति भावः॥

अतः कर्मयोगः च ज्ञानयोगः च पक्षिणः द्वौ पक्षौ, अधिकारभेदात्। यत्र श्रेष्ठतरः योगः उच्यते, गीतायां अन्यत्र वा, अधिकारं मनसि निधाय एव उत्तरम् अपेक्षितम्। कर्मयोगः ज्ञानयोगः इत्येवं सोपानायते यथा दर्पणे प्रतिबिम्बदर्शनार्थं मार्जनम्, आलोकः च।