अस्माकं परम्परायां कथानाम् उन्नतपदवी वर्त्तते। रामायणं वा, महाभारतं वा, पुराणं वा, पञ्चतन्त्रं वा, अन्यत् वा भवतु, गृहेषु एताः एव कथाः ज्ञानवृद्धैः वयोवृद्धैश्च श्राव्यन्ते। किन्तु कथञ्चित् अनुवादपरम्परा जाता, संस्कृतपरम्परा नष्टा जाता इव। अतर्जाले तु प्रादेशिकभाषाभिः एताः सर्वाः अपि कथाः श्रूयन्ते, किन्तु मूलभाषया एव, संस्कृतभाषया एव, न किञ्चित् अपि श्रूयते। किं भवद्भिः कैश्चन सरलया मधुरया अनया एव देवभाषया एताः कथाः श्रावयितुं शक्यन्ते? बहवः श्रोतारः सन्ति इति न अतिशयोक्तिः ...