सद्यः अमृतानन्दमयीदेव्याः जालपुटप्रकाशः संस्कृतभाषयाऽपि सञ्जातः। क्वचित् तादृशप्रयोगः दृश्यते, यत्र अनुवादमात्रं कृतं भवति। अहो आश्चर्यम्। अत्र न केवलम् अनुवादः, प्रत्युत लेखाः अपि उचिताः। तैः क्रियमाणाः प्रयोगाः श्लाघनीयाः। एवमेव संस्कृतध्वजः सर्वत्र प्रसारितः भवतु। अवश्यं स्फूर्तिदायकम् इदम्। जालपुटोऽयम् अत्र वर्त्तते -- http://www.amrita.in/sanskrit -- इति।