कतिपयदिवसेभ्यः प्राक् केनापि अङ्कितं प्रतिस्पन्दनासु यत् बहवः राजनीतिवन्तः संस्कृतभाषया शपथं कुर्वन्ति, प्रत्युत न कुत्रचित् तया व्यवहारभाषया वादविवादः श्रूयते सदसि इति। अद्य क्वचित् एकेन उक्तं यत् अपरेण संस्कृतभाषया व्यवहरामि इति, यतो हि तयोः व्यवहारभाषा असमाना। दौर्भाग्यं यत् संस्कृतं ईदृक् हास्यास्पदं विद्यते। कदाचित् वार्ताहरेण सरलसंस्कृतभाषया एते महोदयाः प्रष्टव्याः एव।