सिंहावलोकनन्यायः प्रसिद्धः। सिंहः अग्रेगम्यमानः सन्नपि क्वचित् पृष्ठभागे दृष्टिं प्रसारयति। तथैव कर्तुं गुरवः उपदिशन्ति। प्रतिदिनं रात्रौ शयनात् प्राक् विचार्यं -- किं सुकृतं, किं दुष्कृतं चेति। किम् अनुकार्यं, किं परिष्कार्यं चेति। एवमेव सर्वाभिः संस्थाभिः नियमितरूपेण विहङ्गमालोकनं सिंहावलोकनं च करणीयम्।

अद्य कञ्चन ग्रन्थं पठ्यमानः आसम्, यत्र अन्वयपूरणार्थम् अग्रिमश्लोकस्य किञ्चन पदम् आवश्यकम् आसीत्। एतादृशं तु बहुत्र सहजम्। क्वचित् कृत्रिमम् अपि सहते, अन्वयबोधार्थम्। तादृक् कश्चन अवसरः, किञ्चन श्लोकद्वयम्।

भाष्ये तु स्पष्टीकृतम् -- "वक्ष्यमाणं [पदं] सिंहावलोकन्यायेन अनुषञ्जनीयम्" इति। पुनश्च टीकाकारेण कश्चन श्लोकः उद्धृतः। तद्यथा --

सिंहावलोकिताख्यश्च मण्डूकप्लुतिरेव च ।
गङ्गास्रोत इति ख्याता अधिकारास्त्रयो मताः ॥

एवं त्रयः प्रयोगाः। यदा पदम् अग्रिमश्लोकेऽपि अनुषज्यते, गङ्गास्रोतः। यदा पदं पूर्वश्लोकेऽपि अनुषज्यते, सिंहावलोकः। यदा श्लोकं निरस्य अग्रे पुनः तिष्ठति, मण्डूकप्लुतिः।