दुःखत्रयाभिघातानां संसारिणां शब्दब्रह्म वेदः परात्परमार्गः। मार्गत्रयं प्रस्थानत्रयम् आश्रियते आस्तिकैः। स च -- उपनिषदः, भगवद्गीता, ब्रह्मसूत्रं चेति। यद्यपि गीता स्वयं भगवता श्रीकृष्णेन उच्चरिता, तथाऽपि तस्याः पौरुषेयत्वं विद्यते। पुनश्च आस्तिकदृष्ट्या उपनिषदः मूलग्रन्थः प्रकृतिः। तस्य ग्रन्थस्य द्वे विकृती। गीता नाम प्रमाणीकृताः शिथिलीभूताः उपनिषदः। ब्रह्मसूत्रं नाम युक्त्या घनीभूताः उपनिषदः। अतः एव सर्वैरपि उपनिषदः अध्येतव्या इति मतम्। तत्र नैकाः प्रसिद्धाः प्रौढव्याख्या वर्त्तन्ते। सरलव्याख्यास्तु अप्रचुराः। पूर्वम् उपनिषन्मणिप्रभा, उपनिषत्प्रसादश्च किञ्चित् विवृते। अधुना अन्यत् विव्रियते।

शृङ्गगिरेः जगद्गुरुभिः बह्व्यः कृतयः रचिताः। अवश्यम् उपनिषदः अपि व्याखाताः। विद्यारण्यस्वामी सुप्रसिद्धः, यस्य पञ्चदशी बहुभिः साधकैः अधीयते। तेन अपरोऽपि अनुभूतिप्रकाश नामकग्रन्थः विरचितः। अस्य शैली सरला मधुरपूर्णा च। तथैव शङ्करानन्दसरस्वतीयतेः उपनिषद्रत्नम् (आत्मपुराणं) विद्यते। द्वेऽपि कृती श्लोकात्मके। एतयोः कृत्योः महत्तां प्रमाणयितुं शक्यते -- अनुभूतिप्रकाशिकस्य उपरि वृत्तित्रयं वर्त्तते। तथैव उपनिषद्रतस्योपरि काचित् वृत्तिः उपलभ्यते। कैश्चन तादृशम् उपयोग्यत्वम् अनुभूतं, यस्मात् वृत्तिरेव रचिता एतयोः कृत्योः उपरि। किन्तु, बहुशः वृत्तेः अनावश्यकता इति पठितृभिः शप्यते।

अनुभूतिप्रकाशः, उपनिषद्रत्नं च अधुना उपलभ्येते इति बोद्धव्यम्। एतादृशीनां कृतीनाम् अध्ययनपरम्परा नष्टा इति चेन्न। सम्पूर्णानुभूतिप्रकाशः स्वामिपरमार्थानन्देन अस्मिन् दशके एव पाठितः। उपनिषद्रत्नस्य कश्चित् भागः (केनोपनिषद्व्याख्या) गतसंवत्सरे अमेरिकादेशे पाठितः।

एवं च सति, अस्माभिः उपनिषदां व्याख्याचतुष्टयं दृष्टम्

  1. भास्करानन्दसरस्वतीयतेः उपनिषत्प्रसादः
  2. अमरदासस्य उप्निषन्मणिप्रभा
  3. विद्यारण्यस्वामिनः अनुभूतिप्रकाशः
  4. शङ्करानन्दसरस्वतीयतेः उपनिषद्रत्नम् (आत्मपुराणम् इति नामान्तरम्)