श्रूयते विद्वद्वचनम् --

उपमा कालिदासस्य भारवेरर्थगौरवम्
दण्डिनः पदलालित्यं माघे सन्ति त्र्यो गुणाः ॥

सर्वस्मिन्नपि श्लोके काचित् उपमा निरूप्यते कालिदासेन । प्रेक्षकैः अतिमात्रं कालिदासवचनानि परिशील्य, तस्य काचित् उपमा एव विशेषणत्वेन उपक्षेपिता । कुतः इयम् उपमा इति पृष्ठे --

संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥६,६७॥

रघुवंशमहाकाव्ये इन्दुमतीस्वयंवराख्याने तस्याः इन्दुमत्याः प्रभावः वर्णितः । सा इन्दुमती रात्रौ दीपशिखा इव संचारिणी, यं यं राजानं व्यतीयाय अतीत्य गता, सः सः भूमिपालः नरेन्द्रमार्गाट्टः इव विवर्णभावं प्रपेदे इति ।

अस्मादेव श्लोकात् अयं कविः दीपशिखाकालिदासः इति ख्यातिं गतः । मुहुर्मुहुः पठित्वाऽपि पुनःपठितुकामाः वयम् । सौन्दर्यात् आख्यायिका इयं बहुषु विश्वविद्यालयेषु पाठ्यवस्तुना विहिता ।