रचयिता -- वैद्यः रामस्वरूपशास्त्री

एकः नृपः आसीत् । स प्रासादे अवसत् । तस्य प्रासादस्य अङ्गणे उद्यानम् अभवत् । तस्मिन् बहवः पादपाः आसन् । तेषु काकः हंसश्च सखायौ आस्ताम् । काकः स्वभावेन खलः आसीत् । सर्वे राजकुमाराः तं हंसं काकं च पर्यचिन्वन् । एकदा खेलतः राजकुमारस्य हारः भूमौ अपतत् । हारः बहुमूल्यैः रत्नैः कृतः आसीत् । काकः तं भूम्यां पतितम् अपश्यत् । स तूष्णीं तम् आदाय अगच्छत् । नृपस्य पुरुषाः हारस्य अन्वेषणाय तत्र आगच्छन् । ते तं हंसं हारस्य विषये बहून् प्रश्नान् पर्यपृच्छन् । स तु "न अहं हारस्य चौरः" इति सत्यं सत्यम् अवदत् ।

तेऽकथयन् -- "हे हंस ! त्वं चौरः नास्ति । तव मित्रं काकः चौरः आसीत् । तथापि मित्रार्थे त्वं येन केन प्रकारेण हारम् आनय । अन्यथा नृपस्य आदेशेन वयं त्वां हनिष्यामः" । हंसः अवदत् -- "अहं हारं अ अचोरयम्, दण्डं न अर्हामि" ।

तेऽकथयन् । सत्यं कथयसि । तथापि काकः तव मित्रम् । स चौरः । त्वं तस्य सहचरः । त्वं मित्रस्य दण्डं सहस्व । इति उक्त्वा ते हंसे बाणम् अक्षिपन् । हंसः पञ्चत्वम् अगच्छत् । अतः उच्यते --

खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् सीतां बन्धनं च महोदधेः ॥ (हनुमन्नाटकम् १३.११)