अस्या मनोहराकारकबरीभारतर्जिताः।
लज्जयेव वने वासं चक्रुश्चमरबर्हिणः॥
इति वररुचेः (सुभाषितावलिः १४८०)

मयूराणां पुच्छानि नानावर्णचित्रिताणि आनन्ददायकानि च। किन्तु तान्यपि अतिशेते कान्त्याः केशकलापः। अस्या इति। अस्या कान्त्याः। मनोहराकारः सुन्दरः कबरीभारः केशकलापः। तेन महता कलापेन तर्जिताः अभिभूताः सन्तः चमरबर्हिणः विशिष्टपुच्छवन्तः मयूराः लज्जया इव वने सुदूरे एकान्ते वासं चक्रुः निवसन्ति।