अतिमलिने कर्तव्ये भवति खलानामतीवनिपुणा धीः।
तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः॥
(सुभाषितरत्नकोषः १२५४)

अतिमलिने असत्कार्ये कर्तव्ये सति खलानां नीचानां धीः बुद्धिः अतीवनिपुणा दक्षा भवति। यथा तिमिरे रात्रौ कौशिकानां उलूकानां दृष्टिः रूपं च प्रतिपद्यन्ते प्रवर्तेते इति॥