कस्मिंश्चित् श्लोके चक्रवाकमिथुनकविसमयः दृष्टः। काव्यमीमांसायां च विवृतम् “चक्रवाकमिथुनस्य निशि निशि भिन्नतटाश्रयणम्” इति।

संक्षिपता यामवतीस्तटिनीनां तनयता पयःपूरान्।
रथचरणाह्वयवयसां किं नोपकृतं निदाघेन॥

तत्र च मधुसूदनविवृतिः —

यामवती रात्रीः संक्षिपता, अल्पयता तटिनीनां नदीनां पयःपूरान् जलौघान् तनयता, निदाघेन ग्रीष्मर्तुना रथचरणमेवाह्वयोऽभिख्या येषां ते रथचरणाह्वयाः। ते च ते वयसः पक्षिणः, तेषां किं नोपकृतम्। यामवतीसंक्षेपेण वियोगस्य अल्पकालत्वं ध्वन्यते। तटिनीपयःप्रवाहतनूकरणेन भिन्नदेशस्थत्वेऽपि नैकट्यं प्रतीयते।

चक्रवाकपक्षिणः एव रथचरणाह्वयवयसः। तन्नाम मन्दगामिनः रथस्य कदाचित् महान् कटुशब्दः यः श्रूयते, तादृशः कश्चित् रवः येषां पक्षिणां, ते एव चक्रवाकाः रथचरणाह्वयवयसः। अस्य च कटुक्रन्दनस्य कारणं विरहः। सायं सायं नदीतटे कान्तः एकाकी, अपरस्मिन् च तटे तत्कान्ता एकाकिनी इति। प्रियवियोगक्रन्दनात् चक्रवाकसंज्ञा।

ग्रीष्मकालप्रियाः चक्रवाकाः। कुत एवम्? रात्रिः संक्षिप्ता इत्यस्मात् विरहकालः अल्पीयान् इव। तथैव महता तापेन सूर्यः नदीजलं पिबति इति कृत्वा नदीतटस्थेऽपि किञ्चन सामीप्यं भवति दम्पत्योः। अस्मात् ग्रीष्मर्तुना उपकृतं एव चक्रवाकानाम्।