एकः स एव परिपालयताज्जगन्ति
गौरीगिरीशचरितानुकृतिं दधानः।
आभाति यो दशनशून्यमुखैकदेश-
देहार्धहारितवधूक इवैकदन्तः॥
वसुकल्पस्य (सुभाषितरत्नकोषः ९४)

गणेशः एकः एव जगन्ति सर्वाणि विश्वानि परिपालयतात् रक्षतु। सोऽयं एकदन्तः इति प्रसिद्धः। कस्मात् इयम् चमत्कारिणी आकृतिः? इदं किञ्चन परमरहस्यं यत् अयं गणेशः अनया आकृत्या स्वमातापितरौ गौरीगिरीशौ पार्वतीपरमेश्वरौ अनुकरोति। तयोः आकृतिं रूपं दधानो वर्तते इति। कथमिति चेत्, उच्यते।

यथा अर्धनारीश्वरस्वरूपेण शिवः पार्वती च प्रसिद्धौ, तादृशम् एव रूपम् अनुकर्तुम् एकदन्तः इव भाति इति कवेः आशयः। दशनशून्येन दन्तरहितेन मुखैकदेशेन मुखवामभागेन देहार्धहारितवधूकः इव देहार्धः अर्धं देहस्य हारितं स्वायत्तीकृतं वध्वा स्वपत्न्या यस्य तादृशः सोऽयम् एकदन्तः इति आभाति।

को वा वध्वा अभिभूतः सन् सर्वजगत्परिपालकोऽपि एकदन्तः न स्यात्?