जटागुल्मोत्सङ्गं प्रविशति शशी भस्मगहनम्
फणीन्द्रोऽपि स्कन्धादवतरति लीलाञ्चितफणः ।
वृषः शाठ्यं कृत्वा विलिखति खुराग्रेण नयनम्
यदा शम्भुश्चुम्बत्यचलदुहितुर्वक्त्रकमलम् ॥
– सुभाषितरत्नकोशः (६२)

अयं श्लोकः अत्र समुद्धृतः प्रकाशितश्च।

जटाः एव गुल्माः स्तम्बाः, तस्य भस्मगहनम् उत्सङ्गं अन्तं प्रविशति शशी चन्द्रः। फणीन्द्रः नागराजः अपि स्कन्धात् अंसयोः अवतरति लीलाञ्चितफणः सन् फणबिलान्ते तिष्ठन्। वृषः नन्दी शाठ्यं कृत्वा व्याजेन खुराग्रेण पादनखाग्रेन नयनं नेत्रं विलिखति स्पृशति निमीलयति च। कदा इदं सर्वं क्रियते? यदा शम्बुः शिवः अचलदुहितुः पर्वतकुमार्याः वक्त्रकमलं कमलसदृशं वक्त्रं मृदु चुम्बति।

अयं भावः – शिवेन सह चन्द्रः, सर्पः, वृषभश्च सदा विराजन्ते। यदा शिवः पार्वत्या सह विहरति, तदा इमे तदनुयायिनः किं वा कुर्वन्ति? अपरत्र पश्यन्ति इति समाधानम्। चन्द्रस्तु सान्द्रभस्मव्याप्तं जटाजूटं प्रविशति। सर्पः लीलया तत्फणे बिले यथा अन्तर्हितो भवति। वृषश्च व्याजेन नयनं नयनपार्श्वे खण्डूयन् नेत्रे निमीलयति। अहो सौन्दर्यं कवेः।