कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते ।
यो मीनराशिं भुक्त्वैव मेषं भोक्तुं समुद्यतः ॥
– इति पं पाजकस्य (सुभाषितावलिः ५५३)

पण्डितैः सूर्यः दन्तरहितः दन्तविहीनः इति उच्यते। किन्तु तदसत्यं ननु … यतो हि – पण्डितप्रतीतं यत् सूर्यः मीनराशिं भुक्त्वा मेषमपि भुक्तुम् उद्यतः – इति।

श्लोकेऽस्मिन् शब्दचमत्कारः दृश्यते। समस्यायां मीनराशिः नाम मीनबाहुल्यम्। यः बहून् मीनान् खादति, मेषं च खादितुकामः, कथं सः दन्तहीनः? किमिति समाधानम्? ज्योतिषशास्त्रे द्वादशराशयः। तेषु द्वादशः मीनः, प्रथमश्च मेषः। अतः सूर्यः मीनराशिं भुक्त्वा (आक्रम्य) मेषराशिं भोक्तुं समुद्यतः एव इति पण्डितैरपि अङ्गीक्रियते एव।