सखि कलितः स्खलितोऽयं हेयो नैव प्रणाममात्रेण।
चिरमनुभवतु भवत्या बाहुलताबन्धनं धूर्तः॥
(सुभाषितरत्नकोषः ६७२)

हे सखि। तव कान्तेन स्खलितं, स च कलितः स्खलने गृहीतः। प्रणाममात्रेण नैव सः हेयः … प्रणामम् एकमात्रं कृत्वा न च धूर्तः मोक्तव्यः। प्रत्युत स भवत्या चिरं बन्धनीयः। कथं बन्धनीयः? तव बाहुलताभ्याम्! इदम् एव बन्धनं सः धूर्तः चिरम् अनुभवतु।