प्रातः स्मरामि भवभीतिहरं सुरेशम्
गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्वाङ्गशूलवरदाभयहस्तमीशम्
संसाररोगहरमौषधमद्वितीयम् ॥१॥

प्रातर्नमामि गिरिशं गिरिजार्धदेहम्
सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामम्
संसाररोगहरमौषधमद्वितीयम् ॥२॥

प्रातर्भजामि शिवमेकमनन्तमाद्यम्
वेदान्तवेद्यमनघं पुरुषं पुराणम् ।
नामादिभेदरहितं षडभावशून्यम्
संसाररोगहरमौषधमद्वितीयम् ॥३॥

प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येऽनुदिनं पठन्ति ।
ते दुःखजातं बहुजन्मसञ्चितं हित्वा पदं यान्ति तदेव शंभोः ॥४॥

notes

  • This is the only one of the पञ्चायतन प्रातः स्मरण where the refrain of each verse repeats
  • The phrase षडभावशून्यं has a variant reading षड्भावशून्यं but it breaks the meter
  • That सर्गस्थितिप्रलय follows गिरिजार्धदेह may allude to शिवः शक्त्या युक्तः from the सौन्दर्यलहरी
  • The last verse uses adjectives (पुराणं पुरुषं and वेदान्तवेद्यं) which are more commonly used for विष्णु