मौलौ गङ्गा-शशाङ्कौ करचरणतले सीतलाङ्गा भुजङ्गाः
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे ।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्तिः
चित्तं विर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये ॥
अप्पय्यदीक्षितः

प्रतिफलमवलोक्य स्वीयमिन्दोः कलायाम्
हरशिरसि परस्या वासमाशङ्कमाना ।
गिरिशमचलकन्या तर्जयामास कम्प-
प्रचलवलयवेल्लत्कान्तिभाजा करेण ॥
कस्यापि

शिवरात्रिपर्व अधिकृत्य मित्रैः श्लोकाः प्रकाशिताः ‘फेस्बुक्’ इत्यत्र। तेषु इमौ रुचिकरौ इति कृत्वा, अत्रापि प्रकाश्येते।