सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ११-९

सर्वमङ्गलमाङ्गल्ये सर्वेषां मङ्गलादीनां यत् माङ्गल्यं तद्रूपे ! शिवे कल्याणकारिणि ! सर्वार्थसाधिके सर्वेषाम् अर्थानां साधिके साधयित्रि ! शरण्ये शरणार्हे ! त्र्यम्बके त्रिनेत्रे ! गौरि गौरवर्णे ! नारायणि विष्णुमाये ! नमोऽस्तु ते॥