प्रातः स्मरामि गणनाथमनाथबन्धुम्
सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्डम्
अाखण्डलादिसुरनायकवृन्दवन्द्यम् ॥१॥

प्रातर्नमामि चतुराननवन्द्यमानम्
इच्छानुकूलमखिलं च वरं ददानम् । 1
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रम् 2
पुत्रं विलासचतुरं शिवयोः शिवाय ॥२॥

प्रातर्भजाम्यभयदं खलु भक्तशोक-
दावानलं गणविभुं वरकुञ्जरास्यम् ।
अज्ञानकाननविनाशनहव्यवाहम्
उत्साहवर्धनमहं सुतमीश्वरस्य ॥३॥

श्लोकत्रयमिदं पुण्यं तस्य साम्राज्यदायकम् । 3
प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥

notes

  • unlike the श्लोकाः on सूर्य while was nicely woven together, this set is full of forced alliterations, starting right from “नाथमनाथ” and the repeated “ण्ड” in the first verse. There is also the obvious “शिवयोः शिवाय” which results in a द्विरुक्ति (पुत्रं शिवयोः and सुतम् ईश्वरस्य).
  • Since the reading द्विरसनाधिपयज्ञसूत्रं (found on a website) is much clear than द्विरसनप्रिययज्ञसूत्रं, I’ve used it as the primary reading.
  • The phrase भक्तशोकदावानलं reads strangely, as does उत्साहवर्धनमहम्.
  • The फलश्रुति does not have a clear अन्वय, and I’ve chosen to replace सदा with तस्य.

पाठान्तरम्

  1. फलं ददानम्

  2. द्विरसनप्रिययज्ञसूत्रम्

  3. सदा साम्राज्यदायकम्