This is a nice short स्तोत्र which takes 16 names of विष्णु and puts them into context. Though a few of the relationships are forced, most of them are natural.

औषधे चिंतयेद् विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥

दुःस्वप्ने स्मर गोविन्दं संकटे मधुसूधनम् ।
कानने नारसिंहं च पावके जलशायिनम् ॥

जलमध्ये वराहं च पर्वते रघुनन्दनम् ।
गमने वामनं चैव सर्वकार्येषु माधवम् ॥

षोडशैतानि नामानि प्रातरुत्थाय य: पठेत् ।
सर्वपापविर्निमुक्तो विष्णुलोके महीयते ॥