प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभाम्
सद्रत्नवत् सकलकुण्डलहारशोभाम् ।
दिव्यायुधोर्जितसुनीलसहस्रहस्ताम्
रक्तोत्पलाभचरणां भवतीं परेशाम् ॥१॥
प्रातर्नमामि महिषासुरचण्डमुण्ड-
शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।
ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलाम्
चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥२॥
प्रातर्भजामि भजतामभिलाषदात्रीम्
धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।
संसारबन्धनविमोचनहेतुभूताम्
मायां परां समधिगम्य परस्य विष्णोः ॥३॥
श्लोकत्रयमिदं देव्याश्चण्डिकायाः पठेन्नरः ।
सर्वान् लोकानवाप्नोति विष्णुलोके महीयते ॥
notes
- The first verse (सद्रत्नवत्) focuses on her pleasant form, the second (विनाशदक्षां) on her strength, and the third (विष्णोः मायां समधिगम्य) on her supreme form as नारायणी.
- The phrase समस्तसुरमूर्तिम् अनेकरूपाम् shows her परा and अपरा forms simultaneously.
- The फलश्रुति which takes one to विष्णुलोक feels almost like a scribal error.