रुद्रसूक्तम्

प्रतिसरबन्धने शान्तिकर्मसु च विनियोगः
सं ४.५.१०॥ ४.५.१०॥ ४.५.१०॥ आ ४.५॥ सं १.३.१४॥ १.३.१४॥

परि॑णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः।
अव॑स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय॥

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम्।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेना᳚॥

मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑ सु॒मना॑ भव।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑क॒ बिभ्र॒दाग॑हि॥

अर्ह॑न् बिभर्षि॒ साय॑कानि॒ धन्व॑। अर्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम्।
अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मब्भु॑वम्। न वा ओजी॑यो रुद्र॒ त्वद॑स्ति॥

त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वꣳ शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे।
त्वं वातै॑र्ररु॒णैर्या॑सि शङ्ग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚।

आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रꣳ होता॑रꣳ सत्य॒यज॒ꣳ रोद॑स्योः।
अ॒ग्निं पु॒रात॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम्॥