विष्णुसूक्तम्

प्रतिसरबन्धने शान्तिकर्मसु च विनियोगः
सं १.२.१३॥ ब्रा २.४.६॥ २.४.३॥ २.८.३॥ २.४.३॥ २.४.३॥

विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे
रजा॑ꣳसि॒ यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः।

(विष्णो॑र॒राट॑मसि॒ विष्णो᳚ पृ॒ष्ठम॑सि॒ विष्णो॒ श्नप्त्रे᳚ स्थो॒
विष्णो॒ स्यूर॑सि॒ विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा॥)

तद॑स्य प्रि॒यम॒भि पाथो॑ अश्याम्। नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था। विष्णो᳚ प॒दे प॑र॒मे मध्व॒ उत्स॑॥

प्र तद्विष्णु॑ स्तवते वी॒र्या॑य। मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु। अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚॥

प॒रो मात्र॑या त॒नुवा॑ वृधान। न ते॑ महि॒त्वमन्व॑श्नुवन्ति।
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम्। प॒र॒मस्य॑ वित्से॥

विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम्। क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन्।
ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः। उ॒रु॒क्षि॒तिꣳ सु॒जनि॑मा चकार॥

त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम्। विच॑क्रमे श॒तर्च॑सं महि॒त्वा।
प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान् त्वे॒षꣴ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑॥