ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम् ।
न हन्तव्योऽस्मि ते राजन् करिष्यामि हि ते प्रियम् ॥३.५०.१९॥

अन्वयः ॥ ततः अन्तरिक्षगः तदा नलं वाचं व्याजहार -- [हे] राजन्! न हन्तव्यः अस्मि ते! हि ते प्रियं करिष्यामि--[इति]।

तिप्पणी ॥ अन्तरिक्षे गच्छतीति अन्तरिक्षगः। हन्तुं योग्यः हन्तव्यः।

विहगः पक्षी नलम् एवं वाणीं उक्तवान्--भोः मम हननं मास्तु, तव हितकार्यं करोमि।