यं सर्वशैलाः परिकल्प्य वत्सम्
मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥१.२॥
अन्वयः ॥ सर्वशैलाः यं वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धरि स्थिते (सति) भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां धरित्रीं दुदुहुः॥
पुंसवनी ॥ पुरा किल राजा पृथुः क्षुत्क्षामदेहानां प्रजानां हिताय गोरूपां पृथिवीं तानि तानि रत्नानि समदूदुहत्। तत्र च तेषु वर्गेषु यथोचितं महान्तो गोद्घारः श्रेष्ठाः वत्साश्च परिकल्पिता आसन्। तदनुसारेण सर्वे पर्वताः सुमेरुपर्वतं दोग्धारं कृत्वा हिमालयं च वत्सं परिकल्प्य पृथुराजस्याज्ञया पृथिवीं मरकतपद्मरागमौक्तिकप्रभृतीन् मणीन् मृतसञ्जीविनीप्रभृतीः ओषधीश्च दोहयामासुरिति भावः।
सर्वशैलाः=सकलपर्वताः; यं हिमालयम्; वत्सं परिकल्प्य=वत्सत्वेन कल्पयित्वा; दोहदक्षे=दोहननिपुणे; मेरौ=सुमेरौ; दोग्धरि=दोहके; स्थिते=वर्तमाने (सति); भास्वन्ति=कान्तिमन्ति; रत्नानि=मरकतपद्मरादादिमणीन् स्वजातिश्रेष्ठवस्तूनि च; महौषधीश्च=सञ्जीविन्यादीश्च; पृथूपदिष्टाम्=वैन्योपदिष्टाम्; धरित्रीम्=पृथिवीम्; दुदुहुः=दुग्धवन्तः।
सर्वे च ते शैलाः सर्वशैलाः। दोहे दक्षः दोहदक्षः। पृथुना उपदिष्टा पृथूपदिष्टा।