किं चिन्तया पार्थिव भुङ्क्ष्व भोगान्
अस्मासु जीवत्सु कुतो रिपुस्ते ।
कथं मयूखेषु परिस्फुरत्सु
सरोजबन्धोस्तमसाऽभिभूतिः ॥३.१५॥
अन्वयः ॥ हे पार्थिव! चिन्तया किम्? भोगान् भुङ्क्ष्व। अस्मासु जीवत्सु (सत्सु) ते रिपुः कुतः? मयूखेषु परिस्फुरत्सु सरोजबन्धोः तमसा अभिभूतिः कथम्?
विलासिनी ॥ उक्तिप्रकारमाह--किमिति॥ हे पार्थिव राजन् चिन्तया किं प्रयोजनम्। विचिन्तयन्दुश्चरितं मदीय--मित्यादि यदुक्तं भवता तथाविधदुश्चिन्ता न कर्तव्येत्यर्थः। भोगान् इच्छानुरूपसुखसाधनानि भुङ्क्ष्व। कामचरानुज्ञायाम् लोट्। अस्मासु मन्त्रिप्रवरेषु सत्सु ते तव रिपुः शत्रुः कुतः कुत्र सम्भवति। अत्र दृष्टान्तमाह--मयूखेषु रश्मिषु परितः सर्वतः स्फुरत्सु प्रदीप्यमानेषु सत्सु सरोजबन्धोः सुर्यस्य तमसा अन्धकारेण अभिभूतिः अभिभवः कथं भवति। तमः कर्तृकात्मापजयः कथं स्यादित्यर्थः।
तिप्पणीः ॥ सरोजानां बन्धुः सरोजबन्धुः।