नियम्य सा मातुल इत्यमर्षम्
प्रसेदुषी मामवदच्च बाला ।
अरिर्महीयानजनिष्ट भूमौ
तवोचितं सम्प्रति चिन्तयेति ॥३.४॥

अन्वयः ॥ सा बाला मातुल इति अमर्षं नियम्य प्रसेदुषी (सती) माम् अवदत् च। तव महीयान् अरिः भूमौ अजनिष्ट। सम्प्रति उचितं चिन्तय इति॥

विलासिनी ॥ नियम्येति ॥ सा प्रस्तुता बाला मातुल इति मातृसहोदर इति कृत्वा अमर्षं कोपं नियम्य प्रसेदुषी प्रसन्ना सती माम् अवदच्च उक्तवती च। भूमौ तव महीयान् उत्कृष्टः अरि शत्रुः अजनिष्ट जातः। सम्प्रति इदानीम् उचितं योग्यं यत् तत् चिन्तय विचारयेत्यवददिति सम्बन्धः॥