व्याहृत्य मां द्यां प्रति देवनारी-
गणैर्गतायामिति सेवितायाम् ।
देव्यामहं दुश्चरितं स्वमेव
स्मरन् विनिद्रो रजनीमनैषम् ॥३.५॥
अन्वयः ॥ इति मां प्रति व्याहृत्य देवनारीगणैः सेवितायां देव्यां द्यां गतायां (सत्यां) अहं स्वं दुश्चरितं स्मरन् एव विनिद्रः रजनीम् अनैषम्॥
विलासिनी ॥ व्याहृत्येति ॥ इति एवंप्रकारं मां प्रति व्याहृत्य उक्त्वा देवनारीगणैः अप्सरोगणैः सेवितायां तस्यां देव्यां द्यां स्वर्गं प्रति गतायां सत्याम् अहं स्वं मत्सम्बन्धि दुश्चरितं दुर्व्यापारं भगिनीपुत्रवधरूपमकृत्यमित्यर्थः। स्मरन् चिन्तयन्नेव विनिद्रः निद्रारहितः रजनीं रात्रिशेषम् अनैषम् अनयम्॥
तिप्पणीः ॥ विगतनिद्रः इति विनिद्रः।