सर्वे वयं दैत्यकुलप्रसूताः
केनापि जाता भुवि कारणेन ।
स तेन सन्नह्यति जेतुमस्मान्
उक्तोऽयमर्थः किल नारदेन ॥३.९॥

अन्वयः ॥ वयं सर्वे दैत्यकुलप्रसूताः केनापि कारणेन भुवि जाताः। तेन सः अस्मान् जेतुं सन्नह्यति। अयम् अर्थः नारदेन उक्तः किल।

विलासिनी ॥ अस्तु स तावत् असुरान् किमस्माकं ततो हानिरिति चेत् अत्राह--सर्व इति॥ वयं अस्मदादयः सर्वे दैत्यकुले असुरकुले प्रसूताः उद्भुताः असुरा एवेत्यर्थः। केनापि अपरिज्ञेयेन कारणेन निमित्तेन भुवि जाताः भूमौ मानुषत्वेन वर्तामहे। तेन हेतुना सः विष्णुः अस्मान् जेतुं परिभवितुं सन्नह्यति उद्युक्तः। कुतः भवतेदमधिगतमिति चेत् अत्राह--अयं अर्थः वयं ससुरांशसम्भवा इत्येष वृत्तान्तः नारदेनोक्तः। किलेति प्रसिद्धौ। युष्माभिः अविदितपूर्वम् इति भावः॥