क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥२॥

पदच्छेदः -- क्व , सूर्य-प्रभवः , वंशः , क्व , च , अल्प-विषया , मतिः, तितीर्षुः , दुस्तरं , मोहात् , उडुपेन , अस्मि , सागरम् ॥

अन्वयः -- सूर्य-प्रभवः वंशः क्व, अल्पविषया (मम) मतिः च क्व; (अहं) दुस्तरं सागरं मोहात् उडुपेन तितीर्षुः अस्मि ॥

वाच्यपरिवर्तनम् -- सूर्यप्रभवेण वंशेन क्व (भूयते) अल्पविषयया (मम) मत्या च क्व (भूयते) दुस्तरं सागरं मोहात् उडुपेन तितीर्षुणा (मया) भूयते॥

भावार्थः -- सूर्य-वंशम् एतावत् विशालं मम च बुद्धिः अल्पा । उभयोः महदन्तरम् । वंशस्य वर्णनं कर्तुम् अशक्ता मम बुद्धिः । यथा सः पुरुषः यः तृणादि-निर्मितया नैकया सागरं तरितुम् इच्छति हास्यास्पदं भवति तथैव अहं यः ईदृशं दुस्साहसं करोमि हास्यास्पदम् अस्मि ॥

There is great difference between my intellect of limited scope and the enacted race sprung from the Sun. It is under a delusion that I am desirous of crossing, by means of a raft, the ocean so difficult to be passed over.

क्व - where is ॥ सूर्य-प्रभवः वंशः - the race sprung from the Sun ॥ क्व च - and where is ॥ (मम) अल्पविषया मतिः - my limited intellect ॥ मोहात् - Under a delusion ॥ तितीर्षुः अस्मि - I am desirous of crossing ॥ उडुपेन - by means of a raft ॥ सागरं - the ocean ॥ दुस्तरं - so difficult (to traverse) ॥

व्याख्या -- क्व कुत्र । सूर्यप्रभवः वंशः क्व, अल्पविषया मे मम मतिः च क्व? द्वौ क्व-शब्दौ महदन्तरं सूचयतः । सूर्यवंशं आकलयितुं न शक्नोमि इति अर्थः । मोहात् अज्ञानात् (शक्य-अशक्य-विवेक-अभावात्) उडुपेन काण्ड-प्लवेन तृणादि-निर्मितेन प्लवेन वा दुस्तरं तरितुम् अशक्यं सागरं समुद्रं तितीर्षुः अस्मि । तरितुम् इच्छुः तितीर्षुः । प्रभवति अस्मात् इति प्रभवः । सूर्यः प्रभवः यस्य सः सूर्यप्रभवः । अल्पः विषयः ग्राह्यः यस्याः सा अल्पविषया मम मे मतिः । दुःखेन तरितुं शक्यं दुस्तरम् अल्पमतित्वे रघुवंश-वर्णनम् उडुपेन सागर-तरणवत् दुष्करम् इति भावः। सूर्यवंशजातानां महतां चरितं स्वल्प-मतीनां चिन्तयितुम् अपि अशक्यम् इति भावः ॥

There is great difference between my intellect of limited scope and the enacted race sprung from the Sun. It is such that I am unable to to describe this race. Out of delusion, by means of a raft-like incapable mind, I am desirous of crossing an ocean. Describing the greatness of this race should not even be thought of by one whose mind is as inferior as myself.