अद्यतनकाले नासा (NASA) संस्थानं सर्वदा दुर्वार्ताम् एव प्रेषयति इव दृश्यते. ते किमपि उत्तमयतया न कर्तुं शक्नुवन्ति इति जनाः वदन्ति. यदा एतत् संस्थानं नूतनम् आसीत्, कोऽपि चन्द्रभूमौ न गतवान् आसीत्. ततः, यत्किमपि ते अकुर्वन्, उस्तुकाः जनाः दुरदर्शनं पश्यन् अमोदन्त. परन्तु, अद्यतनकाले, जनाः चिन्तयन्ति--वयं तु चन्द्रभूमौ गतवन्तः, इदानीं तत्र पुनर्गत्वा किं करिष्यामः--इति. (वयं इति वदन्ति, परन्तु, "ते" कुत्रापि न गतवन्तः. कञ्चन दूरदर्श-जनं पश्यन् 'अहम् एव करोमि' इति चिन्तयन्ति). ततः, यदि ते वार्तां प्रेषयन्ति, कोपि न पठति....परन्तु, यदि दुर्वार्ता अस्ति, तैः न प्रेषितव्या एव!

संस्कृत-भाषा अति-पुरातना एव. तदर्थम् अन्य-देशीय-जनाः (एतस्मिन् काले भारतीय-जनाः च) पृच्छन्ति--किमर्थं मृता भाषा पठितुम् इच्छति इति. ते एतस्याः भाषायाः महिमा न जानन्ति. अस्माकं ऋषयः देहेन चन्द्रभूमौ न अगच्छन्. परन्तु, मनसि, ते सर्वत्र गतवन्तः. कुत्र गतवन्तः, किं दृष्टवन्तः, कथं दृष्टवन्तः.....एतत् सर्वं संस्कृतेन विना वयं न अवगन्तुं शक्नुमः. पुरातनकाल-पत्रानि, अन्यभाषया अनुलेखितुं कोऽपि न शक्नोति यतः एकैक-वाक्यस्य नानार्थाः सन्ति. अपि च, रमणीया-भाषा तु रमणीया भाषा एव.