गतमासस्य सम्भाषण-सन्देशे बालमोदिनी कथा । एतस्मिन् विभागे प्रायेण उपरिस्थित-चित्रे कथायाः इतिवृत्तं वर्णितम् अस्ति । कथायाः इतिवृत्त-चित्रे कुक्कुटः । किन्तु कथायां कुक्कुरः अस्ति, न तु कुक्कुटः ! यतः "कुक्कुरः" "कुक्कुटः" शब्दयोः सदृशता, भ्रमः भवेत् । इतोऽपि चित्रम् ! कथान्ते पठितम् -- कुक्कुरः गृहं रक्षति इति । भ्रमिताः वयं तदा अभिज्ञातवन्तः यत् बुक्कन् कुक्कुरः गृहं रक्षति, न तु चित्रस्थितः कुक्कुटः !