भारतीय-भाषासु बहूनि पुरातन-पुस्तकानि । किन्तु , अद्यत्वे अप्रकाशितानि अलभ्यानि च । भारतीय-सर्वकारेन अन्तर्जाल-ग्रन्थालयः आरब्धः । एकस्य अलभ्यमानस्य पुस्तकस्य स्वप्रकाशनं कर्तुम् इष्टम् । बहवः आपणाः पत्र-प्रकाशनं (printing) कृत्वा, पत्राणि बद्धीकृत्य (binding) ददति । तेषु अन्यतमः किङ्कोस् नाम आपणः । तत्र गत्वा पुस्तकं प्रकाशितम् । यद्यपि सम्यक् न कृतम्, मौणः अहं गृहं प्रति गतवान् । अपरेण सूचितम् -- पुनर्गत्य पुनर्कर्तुं आज्ञापयतु -- इति । एवं तत्र पुनर्गत्य परिष्कारः कृतः ।
यदा प्रकाशकेन प्रकाशित-पत्राणि दृष्टानि, आश्चर्यचकितः अभवत् । प्रायेण तेन देवनागरी-लिपि कदाऽपि न दृष्टा । बन्धनं कर्तुं अन्तर्गत्य, झटिति बहिरागतवान् पृष्टवान् च -- केन भागेन उपरि भवितव्यं , केन भागेन वामेन भवितव्यम् ? -- इति । तदा मृदु-हसता मया उक्तम् -- एतस्मिन् कोणे पृष्ठ-सङ्ख्याः -- इति । लज्जितेन प्रकाशकेन मन्दम् उक्तम् -- अस्तु , शेषं ज्ञातम् ॥