जर्मनी-देशे बर्लिन्-नगर-मृगशाला । दिसेम्बर-पञ्चम-दिनाङ्के तत्र भल्लूक-युवन् जातः । जन्तुशालायां यदा शिशवः जायन्ते, महान् सम्मर्दः भवति । एषः न अपवादः । शिशवः सर्वे सुन्दराः, किन्तु यदि तस्य सुरूपं, तर्हि इतोऽपि सम्मर्दः । यतः एतस्य भल्लूकस्य अमल-श्वेत-त्वक्, अपि च तस्य खेल-स्वभावः, तस्य विख्यातिः प्रसृता । मार्च-मासे, प्रथम-वारं सर्वैः सः पञ्जरे दृष्टः । अद्य कुत्राऽपि सः अपरिचितः न स्यात् । जर्मनी-देशे, एकस्मिन् दैनन्दिक-वार्ता-पत्रिकायां, प्रतिदिनं तस्य वार्ता मुख्य-पुटे प्रकाशिता भवति ! तस्य इतिवृत्त-अन्तर्जाल-पुटम् अपि वर्तते ! अधुना जननपूर्वं स्वान्तर्जालपुटम् !