यस्य षष्ठी चतुर्थी च विहस्य च विहाय च ।
अहं कथं द्वितीया स्यात्, द्वितीया स्याम् अहं कथम्॥
umd_samskritam गणाय एतत् सुभाषितं प्रेषितम् । गण-प्रमुखेन उत्तर-पत्रं सूचितम् । भावार्थः -- काचित् युवती मातापितरौ वदति "यः पुरुषः संस्कृताज्ञः अस्ति, तेन सह कथं वा विवाहिता भवामि ? तस्य द्विताया कथं वा भवामि" इति । सः पुरुषः चिन्तयति विहसः इति शब्दस्य षष्ठी विहस्य, अपि च तस्य चतुर्थी विहाय इति । किन्तु , विहस्य (ल्यप्) इत्युक्ते हसित्वा । अपि च, विहाय (अव्ययः) इत्युक्ते त्यक्त्वा इव ।
अन्यः अर्थः अपि भाति । काचित् महिला मातापितरौ वदति -- यः पुरुषः स्वकार्यम् एव पालयति, परोपकारः कः इति तेन अज्ञातम् , तेन सह कथं वा विवाहिता भवामि -- इति । एषः अर्थः कुतः आगतः ? षष्ठी नाम मम, स्वकार्यम् । चतुर्थी नाम तस्मै, परोककारः ।
यस्य षष्ठी विहस्य -- यः स्वकार्यं हसन् (सुखेन) करोति ।
यस्य चतुर्थी विहाय -- यः परोपकारं कदापि न कुर्यात् (विहाय = त्वक्त्वा) ।
यस्य अहं द्वितीया -- यस्मै अहं द्वितीया, न तु आत्मभागः ।
द्वितीया स्याम् अहं कथम् -- तस्य द्वितीया (न तु प्रथमा) भवितुं कथं वा अङ्गीकरोमि ?
यथा वागर्थौ तथा संस्कृतसंस्कृती । तयोः नित्य-सम्बन्धः । यत्र संस्कृतं तत्र संस्कृतिः । एषा युवती पृच्छति -- यस्य संस्कृतज्ञानं नास्ति, यस्य परोपकारसंस्कृतिः न स्यात्, तेन सह किमर्थं मम बन्धः ? परोपकारी, तस्मै अन्ये सर्वे प्रथमाः, न तु स्वात्मा ॥
वयम् एवं भवाम -- यस्य षष्ठी च चतुर्थी च विहाय च विहस्य च ॥