पद्ये गद्ये वा, सुलभेन अन्वयज्ञानाय प्रश्नरूपेण तत्तत्पद-संयोजनोपायस्य "आकाङ्क्षा" इति संज्ञा। एकैकस्मिन् अपि वाक्ये क्रमेण प्रश्नाः प्रष्टव्याः--

एकैकस्मिन् अपि वाक्ये "पूर्णक्रियापदम्" पूर्वं ज्ञातव्यम् ।
कर्तुः आकाङ्क्षा -- कः? (का /किम्) इति प्रश्नः प्रष्टव्यः।
कर्मणः आकाङ्क्षा -- कम्? (कौ/कान्/काम्/किम्) इति प्रश्नः प्रष्टव्यः।
कर्तृविशेषणस्य आकाङ्क्षा -- कथंभूतः, कीदृशः इति प्रश्नः प्रष्टव्यः।
कर्मविशेषणस्य आकाङ्क्षा -- कथंभूतम्, कीदृशम् इति प्रश्नः प्रष्टव्यः।
क्रियाविशेषणस्य आकाङ्क्षा -- कदा, कुत्र, कथम्, कुतः, किमर्थम् इत्यादयः प्रश्नाः प्रष्टव्याः। यथा --

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥

पूर्णक्रियापदम् -- वन्दे।
कर्तुः आकाङ्क्षा -- कः वन्दे? [अहं] वन्दे।
कर्मणः आकाङ्क्षा -- कौ वन्दे? पार्वतीपरमेश्वरौ वन्दे।
कर्तृविशेषणस्य आकाङ्क्षा -- कथं भूतः अहम्?
कर्मविशेषणस्य आकाङ्क्षा --कथं भूतौ पार्वतीपरमेश्वरौ?
वागर्थौ इव सम्पृक्तौ, जगतः पितरौ।
क्रियाविशेषणस्य आकाङ्क्षा -- किमर्थं वन्दे? वागर्थप्रतिपत्तये वन्दे।

अन्वयः -- [अहं] वागर्थौ इव सम्पृक्तौ, जगतः पितरौ, पार्वतीपरमेश्वरौ, वागर्थप्रतिपत्तये वन्दे॥