विश्वयुद्धे अनेके योद्धारः यशस्विनः। कदाऽपि दशकानन्तरं कस्यापि योद्धुः वीरकथा श्रूयते, अनन्तरं तेन योद्ध्रे पुरस्कारः दीयते। युद्धसमये कश्चन अनाथः तत्रत्यैः जनैः स्वीकृतः। किञ्च, अयं पुरुषः बालकः वा न, सः तु भल्लूकः। असामान्या कथा . . . कथञ्चित्, अस्य भल्लूकस्य, योद्धॄणां च मित्रता उत्पन्ना। कालक्रमेण हिंस्रः सः वशीकृतः।
यदा युद्धस्थलपरिवर्तनं जातं, ते योद्धारः अपगन्तव्याः, किन्तु एतं भल्लूकं अपि नेतुं उद्युक्ताः। किन्तु, केवलं दायित्ववद्भ्यः आहारादिषु व्यवस्था शक्या इत्यतः अनेनापि भारवाहनकार्यं आरब्धम्। अनन्तरं अनेन भल्लूकेन ध्वजे स्थलं रक्षितम्। इदानीं अस्मै ध्वजस्थाय भल्लूकाय पुरस्कारं दातुं केचन प्रयतमानाः सन्ति।