ब्रह्मानन्द-त्रिपाठिनः व्याख्या

समाहृत्यान्यतन्त्राणि सङ्क्षिप्तैः प्रतिसंस्कृतैः।
सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्॥

पद्येऽस्मिन् अभिधेयप्रयोजनं प्रदर्शयति -- समाहृत्येति। अन्यतन्त्राणि अन्येषां व्याडिप्रभृतीनां तन्त्राणि नामलिङ्गानुशासनानि, नामानि च लीङ्गानि च तानि, अनुशिष्यन्ते बोध्यन्ते अनेन तानि, समाहृत्य एकीकृत्य सङ्गृह्येत्यर्थः, सङ्क्षिप्तैः परिमितशब्दैः, प्रतिसंस्कृतैः यथायथं विनियोजितैः, वर्गैः प्रकरणैः, समन्वितम्, अत एव सम्पूर्णम् अखिलं, मया अमरसिंहेन, उच्यते कथ्यते सर्वेषाम् उपकारायेति, शेषः॥२॥