अन्वयः द्विधा। खण्डान्वयः दण्डान्वयः चेति। अन्वयः तु एकः। यदि अाकांक्षया पद्धत्या अन्वयः रच्यते, खण्डान्वयः इति कथ्यते। यदि अन्वयक्रमेण एव रच्यते, दण्डान्वयः इति कथ्यते। रघुवंशस्य उपरि मल्लिनाथः दण्डान्वयेन बोधयति, जिनसमुद्रः खण्डान्वयेन बोधयति। अधः एकस्य श्लोकस्य उदाहरणं दीयते।

अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच।।२-१।।

अन्वयः -- अथ यशोधनः प्रजानाम् अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां पीतप्रतिबद्धवत्सां ऋषेः धेनुं वनाय मुमोच।।

दण्डान्वयः -- अथ निशानयनान्तरम। यशोधनः। प्रजानाम् अधिपः प्रजेश्वरः। प्रभाते प्रातः काले। जायया सुदक्षिण्या प्रतिग्राहयित्र्या। प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या तां तथोक्ताम। पीतं पानम् अस्य अस्ति इति पीतः। पीतवान् इति अर्थः। प्रतिबद्धः वत्सः यस्याः तां ऋषेः धेनुम्। वनाय वनं गन्तुम। मुमोच मुक्तवान्।

खण्डान्वयः -- मुमोच मुक्तवान्। कः मुमोच? अधिपः मुमोच। केषाम् अधिपः मुमोच? प्रजानाम् अधिपः प्रजेश्वरः मुमोच। प्रजानाम् अधिपः कदा मुमोच? प्रजानाम् अधिपः प्रभाते प्रातः काले मुमोच। कथंभूतः अधिपः? यशोधनः। कां मुमोच? धेनुं मुमोच। कथंभूतां ताम? जायाप्रतिग्राहितगन्धमाल्याम् जायया ० यया सा ताम। पुनः कथंभूताम्? पीतप्रतिबद्धवत्साम् पीतं ० यस्याः ताम। कस्य धेनुं मुमोच? ऋषेः धेनुं मुमोच। तां कस्मै मुमोच? तां वनाय मुमोच।।